Maharshipanine: Grammar Shastrasya Specialties Swaroop Nirupananch
Maharshipanine: Grammar Shastrasya Specialties Swaroop Nirupananch
€ 10.00

Author(s):Dr. Harish Kumar Verma
ISBN:978-3-96492-498-8
Pages:100
Publication Year:2022
Publisher:Weser Books
Seller:Weser Books
Amazon:Amazon


In stock

Out of stock



DESCRIPTION

विश्वभाषाजनन्याः संस्कृतभाषायाः स्वरूपं मानवसृष्टेः प्राक्कालादारभ्य चन्द्रतारकवत् प्रतिमण्डिता जयति, तन्निदानं किमस्तीति प्रश्नस्य समाधानमेकमेवास्ति- 'संस्कृतव्याकरणम् ।
अस्मिन्नेव प्रसङ्गे ‘महर्षिपाणिनेः व्याकरणशास्त्रस्य वैशिष्ट्यं स्वरूपनिरुपणञ्च’ नामकपुस्तकस्य प्रथमाध्याये ‘वेदाङ्गेषु प्रधानं व्याकरणम्’ इति प्रमाणितम् वेदस्य छन्दः, कल्पः, ज्योतिषम्, निरुक्तम्, शिक्षा, व्याकरणमिति षडङ्गानि विराजन्ते । एतेषु व्याकरणं मुखरुपेण चाभिधीयते । ऊर्ध्वभूतत्वात् मुख्यत्वाच्च यथा शरीरे मुखस्य प्रामुख्यम् तद्वदेव वेदाङ्गेषु व्याकरणस्य ।व्याकरणस्य वैशिष्ट्यमनेन तथ्येन प्रमाणितम्भवति यद् वेदवेदान्तानाम्भाष्यम्भाष्यङ्कथ्यते, परं व्याकरणस्य भाष्यम्महाभाष्यम् ।
अतः जिज्ञासा भवति यत् किन्नाम व्याकरणम् – ‘व्याकरणं नाम अर्थविशेषमाश्रित्य स्वरप्रकृत्यादीन् विशेषेण संस्कारविशेषेण आसमन्ताद्वैदिकान् लौकिकाँश्च शब्दान् करोतीति, तथाभूतः पाणिन्यादिमहर्षिप्रणीतो ग्रन्थसमूह:' । व्याकरणव्युत्पत्तिविषयकविवेचनम् -व्याक्रियन्ते व्युत्पाद्यन्ते शब्दा अनेनेति व्युत्पत्त्या व्याङ्पूर्वक ‘डुकृञ करणे' इत्यस्माद् धातोः "करणाधिकरणयोश्च” (3.3.117) इत्यनेन सूत्रेण करणार्थे अधिकरणार्थे च "नपुंसके भावे क्तः"(3.3.114), "ल्युट् च” (3.3.115) इत्याभ्यां सूत्राभ्यां भावार्थे च ल्युट्प्रत्ययानन्तरम् "युवोरनाकौ"(7.1.1) इति सूत्रेण अनादेशाद व्याकरणशब्दो निष्पद्यते । इत्थं त्रिविधप्रकारकान्निष्पन्नमानस्य व्याकरणस्य त्रयोऽर्थाः अपि स्वीक्रियन्ते । प्रथमं तच्छास्त्रं येन शब्दानां स्पष्टीकरणं भवेत्, द्वितीयं यस्मिन् शब्दानां स्पष्टीकरणम्, तृतीयञ्च शब्दानां स्पष्टीकरणमित्येव । महाभाष्ये महर्षिपतञ्जलिः व्याकरणाध्ययनस्य कानिचन प्रयोजनानि साक्षात् निर्दिशति - 'रक्षोहागमलध्वसन्देहाः प्रयोजनम्’। रक्षा-ऊह-आगम-लघु-असन्देह-इत्यादीनि व्याकरणाध्ययनस्य पञ्च मुख्यप्रयोजनानि अस्ति ।'इमानि च भूयः शब्दानुशासनस्य प्रयोजनानि’ इति वदन् महर्षि पतञ्जलिना व्याकरणाध्ययनस्य त्रयोदशगौणप्रयोजनान्यपि वर्णितानि ।
द्वितीयाध्याये व्याकरणस्य आविर्भावः, व्याकरणशास्त्रस्य प्रवक्ता, महर्षिपाणिन्यष्टाध्याय्यां स्मृताः पूर्ववर्तिनः आचार्याः इत्यादीनां वर्णनं वर्तते ।
तृतीयाध्याये महर्षिपाणिनेः परिचयः, महर्षिपाणिनेः कृतित्वम्, अष्टाध्याय्याः संरचनाविज्ञानम् इत्यादीनां वर्णनं वर्तते ।
चतुर्थाध्याये पाणिनीयशब्दानुशासनस्य तिस्रोऽवस्थाः- 1. त्रिमुनिकालः, 2. त्रिमुनिटीकाकाल: , 3. प्रक्रियाकालश्च वर्णिताः।